श्री शनि नाम स्तुति (Shri Shani Naam Stuti)

श्री शनि नाम स्तुतिः
क्रोडं नीलाञ्जनप्रख्यम् नीलवर्णसमस्रजम्।
छायामार्तण्डसम्भूतं नमस्यामि शनैश्चरम्॥
नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णाञ्जनमेचकाय।
श्रुत्वा रहस्यं भवकामदश्च फलप्रदो मे भव सूर्यपुत्र॥
नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः।
शनैश्चराय क्रूराय शुद्धबुद्धिप्रदायिने॥
फलश्रुतिः
य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम्।
मदीयं तु भयं तस्य स्वप्नेऽपि न भविष्यति॥
॥ श्रीभविष्यपुराणे श्रीशनिनामस्तुतिः सम्पूर्णा ॥